(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.107. अध्यायः 107
Mahabharata - Vana Parva - Chapter Topics
कपिलेन हयचोरत्वभ्रमेण स्वजिघांसूनां सर्वसागराणां नयनानलेन भस्मीकरणम् ॥ 1 ॥
सगरनिदेशान्निर्गतेनांशुमता कपिलप्रसादनन हयानयनपूर्वकं पितामहयज्ञसमापनम् ॥ 2 ॥
सगरइवांशुमत्यपि स्वर्गते तत्सुतेन - दिलीपेन गङ्गावतरणआय यतमाननापि तदपारयतैव त्रिदिवगमनम् ॥ 3 ॥
Mahabharata - Vana Parva - Chapter Text

लोमश उवाच। 3-107-0x(2052)(20219)
*तेतं दृष्ट्वा हयं राजन्संप्रहृष्टतनूरुहाः।
अनादृत् महात्मानं कपिलं कालचोदिताः ॥ 3-107-1(20220)
संफुद्धाः संप्रधावन्त वाजिग्रहणकाङ्क्षिणः।
ततः क्रुद्धो महाराज कपिलो मुनिसत्तमः ॥ 3-107-2(20221)
वासुदेवेति यं प्राहुः कपिलं मुनिपुङ्गवम्।
स चक्षुर्विकतं कृत्वा तेजस्तेषु समुत्सृजन् ॥ 3-107-3(20222)
ददाह सुमहातेजा मन्दबुद्धीन्स सागरान्।
षष्टिं रतानि सहस्राणि युगपन्मुनिसत्तमः ॥ 3-107-4(20223)
तान्दृष्ट्वा भस्मसाद्भूतान्नारदः सुमहातपाः।
सगरान्तिकमागत्य तच्च तस्मै न्यवेदयत् ॥ 3-107-5(20224)
स तच्छ्रुत्वा वचो घोरं राजा मुनिमुखोद्गतम्।
महूर्तं विमना भूत्वा स्थाणोर्वाक्यमचिन्तयत् ॥ 3-107-6(20225)
`स पुत्रनिधनोत्थेन दुःखेन समभिप्लुतः।
आत्मानमात्मनाऽऽश्वास्य हयमेवान्वचिन्तयत्' ॥ 3-107-7(20226)
अशुमन्तं समाहूय असमञ्जसुतं तदा।
पौत्रं भरतशार्दूल इदं वचनमब्रवीत् ॥ 3-107-8(20227)
षष्टिस्तात सहस्राणि पुत्राणाममितौजसाम्।
कापिलं तेज आसाद्य मत्कृतेनिधनं गताः ॥ 3-107-9(20228)
तव चापि पिता तात परित्यक्तो मयाऽनघ।
धर्मं संरक्षमाणेन पौराणां हितमिच्छता ॥ 3-107-10(20229)
युधिष्ठिर उवाच। 3-107-11x(2053)
किमर्थं राजशार्दूलः सगरः पुत्रमात्मजम्।
त्यक्तवान्दुस्त्यजं वीरं तन्मे ब्रूहि तपोधन ॥ 3-107-11(20230)
लोमश उवाच। 3-107-12x(2054)
असमञ्ज इति ख्यातः सगरस्य सुतो ह्यभूत्।
यं शैव्या जनयामास पौराणां स हि दारकान् ॥ 3-107-12(20231)
`क्रीडतः सहसाऽऽसाद्य तत्रतत्र महीपते'।
चूडासु क्रोशतो गृह्यनद्यां चिक्षेप दुर्बलान् ॥ 3-107-13(20232)
ततः पौराः समाजग्मुर्भयशोकपरिप्लुताः।
सगरं चाभ्यभाषन्त सर्वे प्राञ्जलयः स्थिताः ॥ 3-107-14(20233)
त्वं नस्त्राता महाराज परचक्रादिभिर्भयात्।
असमञ्जभयाद्धोरात्ततो नस्त्रातुनर्हसि ॥ 3-107-15(20234)
पौराणां वचनं श्रुत्वा घोरं नृपतिसत्तमः।
मुहूर्तं विमना भूत्वासचिवानिदमब्रवीत् ॥ 3-107-16(20235)
असमञ्ज पुरादद्य सुतो मे विप्रवास्यताम्।
यदि वो मत्प्रियं कार्यमेतच्छीध्रं विधीयताम् ॥ 3-107-17(20236)
एवमुक्ता नरेन्द्रेण सचिवास्ते नराधिप।
यथोक्तं त्वरिताश्चक्रुर्यथाऽऽज्ञापितवान्नृपः ॥ 3-107-18(20237)
एतत्ते सर्वमाख्यातं यथा पुत्रो महात्मना।
पौराणां हितकामेन सगरेण विवासितः ॥ 3-107-19(20238)
अंशुमांस्तु महेष्वासो यदुक्तः सगरेण हि।
तत्ते सर्वंप्रवक्ष्यामि कीर्त्यमानं निबोध मे ॥ 3-107-20(20239)
सगर उवाच। 3-107-21x(2055)
पितुश् तेऽहंत्यागेन पुत्राणां निधनेन च।
अलाभेन तथाऽश्वस् परितप्यामि पुत्रक ॥ 3-107-21(20240)
तस्माद्दुःखाभिसंतप्तं यज्ञविघ्नाच्च मोहितम्।
हयस्यानयनात्पौत्र नरकान्मां समुद्धर ॥ 3-107-22(20241)
लोमश उवाच। 3-107-23x(2056)
अंशुमानेवमुक्तस्तु सगरण महात्मना।
जगाम दुःखात्तं देशं यत्रवै दारिता मही ॥ 3-107-23(20242)
स तु तेनैव मार्गेण समुद्रं प्रविवेश ह।
अपश्यच्च महात्मानं कपिलं तुरगं च तम् ॥ 3-107-24(20243)
स दृष्ट्वा तेजसो राशिं पुराणमृपिसत्तमम्।
प्रणम्य शिरसा भूमौ कार्यमस्मै न्यवेदयत् ॥ 3-107-25(20244)
ततः प्रीतो महाराज कपिलोंऽशुमतोऽभवत्।
उवाच चैनं धर्मात्मा वरदोस्मीति भारत ॥ 3-107-26(20245)
स वव्रे तुरगं तत्र प्रथमं यज्ञकारणात्।
द्वितीयमुदकं वव्रे पितॄणां पावनेच्छया ॥ 3-107-27(20246)
तमुवाच महातेजाः कपिलो मुनिपुङ्गवः।
ददानि तव भद्रं ते यद्यत्प्रार्थयसेऽनघ ॥ 3-107-28(20247)
त्वयि क्षमा च धर्मश्च सत्यं चापि प्रतिष्ठितम्।
त्वया कृतार्थः सगरः पुत्रवांश्च त्वया पिता ॥ 3-107-29(20248)
तव चैव प्रभावेन स्वर्गं यास्यन्ति सागराः।
`शलभत्वं गता ये ते मम क्रोधहुताशने' ॥ 3-107-30(20249)
पौत्रश्च ते त्रिपथगां त्रिदिवादानयिष्यति।
पावनार्थं सागराणां तोषयित्वा महेश्वरम् ॥ 3-107-31(20250)
हयं नयस्व भद्रं ते याज्ञिं नरपुङ्गव।
यज्ञः समाप्यतां तात सगरस्य महात्मनः ॥ 3-107-32(20251)
अंशुमानेवमुक्तस्तु कपिलेन महात्मना।
आजगाम हयं गृह्य यज्ञवाटं महात्मनः ॥ 3-107-33(20252)
सोभिवाद्य ततः पादौ सगरस्य महात्मनः।
मूर्ध्नि तनाप्युपाघ्रातस्तस्मै सर्वंनय्वेदयत् ॥ 3-107-34(20253)
यथा दृष्टं श्रुतं चापि सागराणां क्षयं तथा।
तं चास्मै हयमाचष्ट यज्ञवाटमुपागतम् ॥ 3-107-35(20254)
तच्छ्रुत्वा सगरो राजा पुत्रजं दुःखमत्यजत्।
अंशुमन्तं च संपूज्यसमापयत तं क्रतुम् ॥ 3-107-36(20255)
समाप्तयज्ञः सगरो देवैः सर्वैः सभाजितः।
पुत्रत्वे कल्पयामास समुद्रं वरुणालयम् ॥ 3-107-37(20256)
प्रशास्य सुचिरं कालं राज्यं राजीवलोचनः।
पौत्रे भारं समवेश्य जगाम त्रिदिवं तदा ॥ 3-107-38(20257)
अंशुमानपि धर्मात्मा महीं सागरमेखलाम्।
प्रशशास महाराज यथैवास् पितामहः ॥ 3-107-39(20258)
तस्य पुत्रः समभवद्दिलीपो नाम धर्मवित्।
तस्मिन्राज्यं समाधाय अंशुमानपि संस्थितः ॥ 3-107-40(20259)
दिलीपस्तु ततः श्रुत्वा पितॄणां निधनं महत्।
पर्यतप्यत दुःखेन तेषां गतिमचिन्तयत् ॥ 3-107-41(20260)
गङ्गावतरणए यत्नं सुमहच्चाकरोन्नृपः।
न चावतारयामास चेष्टमानो यथाबलम् ॥ 3-107-42(20261)
तस् पुत्र समभवच्छ्रीमान्धर्मपराणः।
भगीरथ इति ख्यातः सत्यवागनसूयकः ॥ 3-107-43(20262)
अभिषिच्य तु तं राज्येदिलीपो वनमाश्रितः ॥ 3-107-44(20263)
तपः सिद्धिसमायोगात्स राजा भरतर्षभ।
वनाज्जगाम त्रिदिवं कालयोगेन भारत ॥ 3-107-45(20264)
Alternate Text??

3-107a-1a
ते तं दृष्ट्वा हयं राजन्संप्रहृष्टतनूरुहाः। 3-107a-1b
अनादृत्य महात्मानं कपिलं कालचोदिताः। 3-107a-1c
संक्रुद्धाः समधावन्त कपिलं हन्तुमुद्यताः ॥ 3-107a-2a
तान्दृष्ट्वा हन्तुमुद्युक्तान्कपिलो रोपमूर्च्छितः। 3-107a-2b
सगरस्यात्मजान्सर्वान्ददाह क्षणतो नृप ॥ 3-107a-3a
तान्दृष्ट्वा भस्मसाद्भूतान्नारदः सुमहातपाः। 3-107a-3b
सगरान्तिकमागन्य तच्च तस्मै न्यवेदयत् ॥ 3-107a-4a
एतच्छ्रुत्वा वचो राजा घोरं मुनिमुखोद्गतम्। 3-107a-4b
मुहूर्तं विमना भूत्वास्थाणोर्वाक्यमचिन्तयत् ॥ 3-107a-5a
अशुमन्तं प्रेपयित्वा हयमानाय्य यत्नतः। 3-107a-5b
यज्ञं समाप्य विधिवन्सगरो भृशदुःखितः। 3-107a-5c
कृत्वांऽशुमति तद्राज्यं वनमेवान्वपद्यत ॥ 3-107a-6a
अशुमानकरोद्राज्यं प्रजा धर्मेण रञ्जयन्। 3-107a-6b
दिलीपे राज्यमाधाय वनमेवान्वपद्यत ॥ 3-107a-7a
दिलीपोपि महाराज चिरं राज्यमकारयत् ॥ 3-107a-8a
तस् पुत्रो महीपाल भगीरथ इति श्रुतः। 3-107a-8b
धर्मज्ञश्च कृतज्ञश्च प्रजानामनुरञ्जकः ॥ 3-107a-9a
पितरि स्वर्गते राजन्दिलीपे पुण्यशालिनि। 3-107a-9b
भगीरथो महानासीद्राजा परमधार्मिकः ॥ 3-107a-10a
स चिरं तप आतिष्ठछन्महादेवप्रसादतः। 3-107a-10b
ऊर्ध्ववाहुर्निरालम्बः पादाङ्गुष्ठाश्रितावनिः ॥ 3-107a-11a
वायुभक्षो निराहारो भक्तियुक्तेन चेतसा। 3-107a-11b
तत आविरभूद्देवः पिनाकी वृपभध्वजः ॥ 3-107a-12a
परंब्रह्म परं धाम परमात्मा सनातनः। 3-107a-12b
आनादिमध्यनिधनः शङ्करः सर्वपूजितः ॥ 3-107a-13a
भगीरथोपि तं दृष्ट्वा भगवान्तमुमापतिम्। 3-107a-13b
प्रणिपत्य महादेवमस्तौषीद्धिविधैः स्तवैः ॥ 3-107a-14a
स्तुत्वा च विविधै स्तोत्रैः कृताञ्जलिपुटो नृपः। 3-107a-14b
अयाचत वरं देवं गङ्गाया धारणं प्रति ॥ 3-107a-15a
भगवंस्तपसा तुष्टोब्रह्मा मे स्वर्गवासिनीम्। 3-107a-15b
गङ्गां संप्रेषयामीति ददौ वरमनुत्तमम् ॥ 3-107a-17a
तां वै धारयितुं शक्तं नान्यं पश्यामि शूलिनः। 3-107a-17b
तं तोषय महाराजेत्पेवमुक्त्या दिवं गतः ॥ 3-107a-18a
भवत्प्रसादसिद्ध्यर्थं तपस्तप्तं मया विभो। 3-107a-18b
भवता धृतया देव गङ्गया पूतया मम। 3-107a-18c
पितामहाश्च लोकाश्च सर्वे सद्भतिमाप्नुयुः ॥ 3-107a-19a
एवंसंप्रार्थितो देवस्तथा चक्रे महेश्वरः ॥ 3-107a-20a
ब्रह्मणा समनुज्ञता गङ्गाऽपिक्रोधमूर्च्छिता। 3-107a-20b
विशाम्यहं तु पातालं स्रोतसा गृह्य शङ्करम् ॥ 3-107a-21a
इत्याग्रहान्महाराज शिवे शिवशिरस्युत। 3-107a-21b
पतित्वा तव वभ्राम वहन्वर्पान्विमोहिता। 3-107a-21c
तृणेऽवश्यायकणिका यथा तद्वत्स्थिताक्वचित् ॥ 3-107a-22a
तामदृष्ट्वाऽथ भूपालस्तोपयामास शङ्करम्। 3-107a-22b
पुनश्च व्यसृजद्देवो गङ्गां वै गूहितां नृप ॥ 3-107a-23a
प्रणिपत्य महादेवं पुरा राजा भगीरथः। 3-107a-23b
पितॄनाप्लावयामास सागरं चाप्यपूरयत् ॥ 3-107a-24a
तेऽपि स्वर्गं गता राजन्सगरस्यात्मजाः क्षणात्। 3-107a-24b
पितृभ्यश्चोदकं तत्रददौ पूर्णमनोरथः ॥ 3-107a-25a
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि। 3-107a-25b
एवं स सागरो राजन्पूरितोऽगस्त्यदूपितः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.